|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.203. अध्यायः 203
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मनुबृहस्पतिसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
मनुरुवाच। 12-203-0x(6049)(73034)
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते।
यस्मिन्न शक्यते कर्तुं यत्नस्तं नानुचिन्तयेत्॥ 12-203-1(73035)
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्।
चिन्त्यमानं हि चाभ्येति भूयश्चापि प्रवर्तते॥ 12-203-2(73036)
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात्॥ 12-203-3(73037)
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः।
आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः॥ 12-203-4(73038)
न जानपदिकं दुःखमेकः शोचितुमर्हति।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम्॥ 12-203-5(73039)
सुखाद्बहुतरं दुःखं जीविते नास्ति संशयः।
स्रिग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम्॥ 12-203-6(73040)
परित्यजति यो दुःखं सुखं वाऽप्युभयं नरः।
अभ्येति ब्रह्म सोत्यन्तं न ते शोचन्ति पण्डिताः॥ 12-203-7(73041)
दुःखमर्था हि युज्यन्ते पालने न च ते सुखम्।
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत्॥ 12-203-8(73042)
ज्ञानं ज्ञेयाभिर्निवृत्तं विद्धि ज्ञानगुणं मनः।
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते॥ 12-203-9(73043)
यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते।
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना॥ 12-203-10(73044)
सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते।
अपरादभिनिः स्रौति गिरेः शृङ्गादिवोदकम्॥ 12-203-11(73045)
यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम्।
तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा॥ 12-203-12(73046)
मनस्त्वसंहृतं बुद्ध्या हीन्द्रियार्थनिदर्शकम्।
न समर्थं गुणापेक्षि निर्गुणस्य निदर्शने॥ 12-203-13(73047)
सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः।
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते॥ 12-203-14(73048)
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये।
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते॥ 12-203-15(73049)
यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी।
व्यवसायगुणोपेता तदा संपद्यते मनः॥ 12-203-16(73050)
गुणवद्भिर्गुणोपेतं यदा ध्यानगतं मनः।
तदा सर्वान्गुणान्हित्वा निर्गुणं प्रतिपद्यते॥ 12-203-17(73051)
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्॥ 12-203-18(73052)
तपसा चानुमानेन गुणैर्जात्या श्रुतेन च।
निनीषेत्परमं ब्रह्म विशुद्धेनान्तरात्मना॥ 12-203-19(73053)
गुणहीनो हि तं मार्गं बहिः समनुवर्तते।
गुणाभावात्प्रकृत्या वा निस्तर्क्यं ज्ञेयसंमितम्॥ 12-203-20(73054)
नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते।
गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने॥ 12-203-21(73055)
यदा पञ्च वियुक्तानि इन्द्रियाणि स्वकर्मभिः।
तदा तत्परमं ब्रह्म संमुक्तं प्रकृतेः परम्॥ 12-203-22(73056)
एवं प्रकृतितः सर्वे संभवन्ति शरीरिणः।
निवर्तन्ते निवृत्तौ च स्वर्गे नैवोपयान्ति च॥ 12-203-23(73057)
पुरुषप्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च।
अहंकारोऽभिमानश्च संभूतो भूतसंज्ञकः॥ 12-203-24(73058)
एतस्याद्या प्रवृत्तिस्तु प्रधानात्संप्रवर्तते।
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति॥ 12-203-25(73059)
धर्मादुत्कृष्यते श्रेयस्तथा धर्मोऽष्यधर्मतः।
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवम्॥ ॥ 12-203-26(73060)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्र्यधिकद्विशततमोऽध्यायः॥ 203॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-203-5 उपक्रमं प्रतीकारोपायम्॥ 12-203-6 मरणं भवति॥ 12-203-7 ते ब्रह्माभिगताः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|